User:Namita
From Spoken Tutorials Wiki
Ubuntu Desktop संस्कृतम्
| Time | Narration |
|---|---|
| 0.00 | Synaptic Package Manager इत्यधिकृत्य सञ्चालिते Spoken Tutorial इत्यस्मिन् वर्गे भवतां स्वागतम्। |
| 0.06 | अस्मिन् Tutorial मध्ये वयं Synaptic Package Manager इत्यस्य उपयोगद्वारा Ubantu मध्ये कथं Application इत्यस्य संस्थापनं करणीयम् इति जानीमः। |
| 0.17 | अस्य कृते अहं Gnome Environment Desktop इत्यनेन सह Ubantu 10.04 इत्यस्य उपयोगं करोमि। |
| 0.24 | Synaptic Package Manager इत्यस्य उपयोगार्थं भवतां समीपे Administrative Rights भवेत्। |
| 0.29 | Internet सम्पर्कः समीचीनः भवेत्। तर्हि प्रथमं Synaptic Package Manager उद्घाटयामः। |
| 0.36 | उद्घाटनार्थं कृपया गच्छन्तु, System>Administrator तत्र Synaptic Package Manager इति नुदन्तु। |
| 0.47 | इदानीम् किञ्चन Authentication Dialog Box दृश्यते यच्च Password पृच्छति। |
| 0.55 | अधुना Password टङ्कयन्तु Enter नुदन्तु च। |
| 1.06 | यदा वयं Synaptic Package Manager इत्यस्य प्रथमवारम् उपयोगं कुर्मः तदा किञ्चन Introduction Dialog Box दृश्यते। |
| 1.13 | अस्मिन् Synaptic Package Manager इत्यस्य उपयोगस्य विषये ज्ञानं भवति। |
| 1.20 | अधुना अस्मिन् Synaptic Package Manager मध्ये किञ्चन Application अथवा Package इत्येतत् संस्थापयितुं Proxy अपि च Repository इत्यनयोः संरचनां कुर्मः। |
| 1.29 | एतन्निमित्तं Synaptic Package Manager इत्यस्य Windows इति स्थानं गच्छामः। |
| 1.36 | कृपया Setting इति गत्वा Preference उपरि नुदामः। |
| 1.44 | Preference Window मध्ये तस्य screen उपरि बहूनि Tabs दृश्यन्ते। |
| 1.55 | अत्र Proxy Server इत्यस्मिन् Direct Connection अपि च Manual Connection इति द्वे विकल्पे स्तः। अहं Manual Connection इत्यस्य उपयोगं करोमि यच्च अत्र दृश्यते। भवन्तः स्वोचितं विकल्पं चित्वा Authentication इत्यस्य उपरि नुदन्तु। अधुना screen उपरि Http Authentication Window दृश्यते। |
| 2.21 | अत्र यदि अपेक्षितं तर्हि User Name अपि च Password टङ्कयित्वा OK इति नुदन्तु। अधुना परिवर्तनं कर्तुं Apply इत्यस्य उपरि नुदन्तु। Window इत्यस्य पिधानार्थं OK इति नुदन्तु। |
| 2.38 | अधुना पुनः प्रतिगच्छन्तु Setting अपि च Repositories इति नुदन्तु। |
| 2.46 | अधुना Screen उपरि Software Sourcres Window इति दृश्यते। |
| 2.51 | Ubantu Software इत्यस्य Download कर्तुं बहूनि मूलानि सन्ति। अधुना Download From इत्यस्य drop down menu इत्यस्य उपरि नुदन्तु अपि च Repositories इत्यस्य सूचीं द्रष्टुं Mouse इत्यस्य पिञ्जं तत्रैव स्थापयन्तु। |
| 3.05 | तत्र “Others” इति विकल्पः Glob उपरि विद्यमानस्य Server इत्यस्य सूचीं दर्शयति। |
| 3.12 | एतत् Window पिधानं कर्तुं Cancel इति नुदन्तु। अहं यथा अत्र दृश्यते तथा “Server for India” इत्यस्य उपयोगं कुर्वन् अस्मि। Software Sources इत्यस्य पिधानार्थं Close इति नुदन्तु। |
| 3.26 | एतस्य Tool इत्यस्य उपयोगः कथं करणीयः इति दृष्टुम् अहम् उदाहरणरूपेण vlc Player इत्यस्य संस्थापनं करोमि। |
| 3.34 | यदि भवन्तः Synaptic Package Manager इत्यस्य उपयोगं प्रथमवारं कुर्वन्तः सन्ति तर्हि भवद्भिः Packages इत्यस्य Reload करणीयं भविष्यति। एवं कर्तुं Tool Bar उपरि Reload इत्यस्य उपरि नुदन्तु। अत्र किञ्चित् प्रतीक्षणीयं भवेत्। अत्र वयं Packages Internet द्वारा स्थानान्तरितं भवति अपि च Updated भवति इति द्रष्टुं शक्नुमः। |
| 3.59 | यदा Reloading इत्यस्य प्रक्रिया समाप्यते तदा Quick Search Box इत्यस्य उपरि गच्छन्तु यच्च Tool Bar मध्ये अस्ति अपि च vlc इति टङ्कयन्तु। |
| 4.14 | अत्र वयं सर्वविधानि vlc packages सूचिबद्धानि द्रष्टुं शक्नुमः। |
| 4.19 | vlc Package इति चेतुं कृपया Check Box उपरि नुत्वा Menu Bar उपरि प्रदर्शितं Mark for Installation इति विकल्पं चिन्वन्तु। |
| 4.34 | अत्र किञ्चन Dialog Box दृश्यते यस्मिन् Repository Packages इत्यस्य सम्पूर्णसूची अस्ति। सर्वं Dependencies Packages स्वतः Mark भवेत् इत्येतदर्थं Mark इत्यस्य उपरि नुदन्तु। |
| 4.46 | Tool Bar प्रति गच्छन्तु अपि च Apply इति नुदन्तु। |
| 4.52 | अधुना किञ्चन Summary Window दृश्यते यस्मिन् च संस्थापनस्य विवरणं भवति। संस्थापयितुं Apply इति नुदन्तु। |
| 5.05 | संस्थापनप्रक्रिया Package इत्यस्य सङ्ख्यां परिमाणं च आधारीकृत्य किञ्चित् समयं स्वीकरोति। |
| 5.25 | यदा संस्थापनप्रक्रिया समाप्ता भवति तदा Downloading Packages File इति Window पिहितं भवति। |
| 5.43 | अधुना वयं परिवर्तनं जायमानम् अस्ति इति द्रष्टुं शक्नुमः। |
| 6.00 | वयम् अधुना vlc इति प्रयोगः संस्थापितः इति द्रष्टुं शक्नुमः। Synaptic Package Manager Window इत्येतस्य पिधानं कुर्मः। |
| 6.09 | अधुना सत्यापितं कुर्मः यत् vlc Player इति प्रयोगः सफलतापूर्वकं संस्थापितः वा न वा इति। |
| 6.15 | एतत्कर्तुं गच्छामः Applications>Sound and Video. अत्र वयं vlc Media Player सूचिबद्धं द्रष्टुं शक्नुमः। अर्थात् vlc सफलतापूर्वकं संस्थापितम् अस्ति। एवमेव वयं Synaptic Package Manager इत्यस्य उपयोगद्वारा अन्यप्रयोगान् अपि संस्थापयितुं शक्नुमः। |
| 6.36 | अधुना सारांशं वदामि, अस्मिन् Tutorial मध्ये वयं Synaptic Package Manager इत्यस्मिन् Proxy अपि च Repository इत्यस्य संरचनां कर्तुं ज्ञातवन्तः। अपि च कथं Synaptic Package Manager इत्यस्य उपयोगेन Application अथवा Package इत्यस्य संस्थापनं करणीयम् इति ज्ञातवन्तः। |
| 6.51 | Spoken Tutorial इत्ययं प्रकल्पः Talk to a Teacher इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति। अधिकविवरणं http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे उपलभ्यमस्ति। |
| 7.19 | अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहलीतः वासुदेवः अस्ति। Tutorial इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादाः। |